महाभारतस्य आदिपर्वणः आस्तीकोपपर्वणि नृपतेर्गुणानां परिशीलनम् शोधकर्ता

Authors

  • कुमार

Keywords:

महर्षिवेदव्यासेन, महाभारतं

Abstract

महर्षिवेदव्यासेन विरचितं महाभारतं सामान्यं महाकाव्यं न वर्तते अपितु भारतवर्षस्य प्राचीनतमायाः संस्कृतेः इतिहासस्य च आधारभूतो ग्रन्थो वर्तते। स्वप्रतिपाद्यबाहुल्यदृष्ट्या महाभारतम् केवलम् स्वयमेव स्वकीयमुपमानमस्ति। स्वस्मिन् प्रतिपाद्यबाहुल्यात् हेतोः अस्य घोषणा अस्ति यत् धर्मार्थकाममोक्षाणाम् पुरुषार्थानाम् विषये यदत्र प्राप्यते तदन्यत्र प्राप्तुं शक्यते, किन्तु यदत्र नास्ति तदन्यत्र कुत्रापि नास्ति। महाभारतस्य विस्तृताध्ययनेन ज्ञायते यत् अस्माकं भारतीया संस्कृतिः सर्वदा ज्ञानविज्ञानकलासम्पूर्णा चाऽऽसीत्। धर्मार्थकाममोक्षविषयकं निखिलं ज्ञानं महाभारते वर्णितमस्ति नात्र संशयः। अयं ग्रन्थः केवलं परिमाणे एव विशालतमः नास्ति अपितु अर्थस्य भावस्य ज्ञानविज्ञानयोः विषयेऽपि अनुपमेयम् रचना ्।

References

महर्षिवेदव्यासप्रणीतं महाभारतम् - भारतभावदीपटीका - पृष्ठ संख्या 313, 314

महर्षिवाल्मीकिप्रणीतं रामायणम् - 1.1, 2, 3, 4

महर्षिवाल्मीकिप्रणीतं रामायणम् - 1.1.8, 9

Downloads

Published

2022-12-30

How to Cite

कुमार उ. (2022). महाभारतस्य आदिपर्वणः आस्तीकोपपर्वणि नृपतेर्गुणानां परिशीलनम् शोधकर्ता. Universal Research Reports, 9(4), 73–77. Retrieved from https://urr.shodhsagar.com/index.php/j/article/view/1014

Issue

Section

Original Research Article